logo

Vedāntamuktāvalī – 07 by Prof. Ramasubramanian

#Vedanta​ #Advaita​ #AdiShankara​ #Hinduism​ #Oneness​ #Nonduality​ #Spirituality
Lecture series on Bellaṃkoṇḍa Rāmarāyakavi’s Vedāntamuktāvalī by Prof. K. Ramasubramanian – Lecture #07

Study of the commentary to the first verse of Vedāntamuktāvalī. The following excerpt from Bhāmatī below (extracted from the commentary on Brahma Sūtra (1.1.3)) is a reference material relevant to this lecture.

यथाहुः — “यत्नतः प्रतिषेध्या नः पुरुषाणां स्वतन्त्रता” । तत्र सृष्टिप्रलयमनिच्छन्तो जैमिनीया वेदाध्ययनं प्रति अस्मादृशगुरुशिष्यपरम्परां अविच्छिन्नामिच्छन्ते, वेदमनादिमाचक्षते। वैयासिकं तु मतमनुवर्तमानाः श्रुतिस्मृतीतिहासादिसिद्धसृष्टिप्रलयानुसारेण अनाद्यविद्योपधानलब्ध-सर्वशक्तिज्ञानस्यापि परमात्मनो नित्यस्य वेदानां योनेरपि न तेषु स्वातन्त्र्यम्, पूर्वपूर्वसर्गानुसारेण तादृशतादृशानुपूर्वीविरचनात् । यथा हि — यागादिब्रह्महत्यादयः अर्थानर्थहेतवो ब्रह्मविवर्ता अपि न सर्गान्तरेऽपि विपरीयन्ते ।

न हि जातु क्वचित्सर्गे ब्रह्महत्या अर्थहेतुः अनर्थहेतुश्चाश्वमेधो भवति । अग्निर्वा क्लेदयति । आपो वा दहन्ति। तद्वत्। यथात्र सर्गे नियतानुपूर्व्यं वेदाध्ययनं अभ्युदयनिःश्रेयसहेतुः अन्यथा तदेव वाग्वज्रतया अनर्थहेतुः, एवं सर्गान्तरेष्वपीति तदनुरोधात् सर्वज्ञोऽपि सर्वशक्तिरपि पूर्वपूर्वसर्गानुसारेण वेदान् विरचयन् न स्वतन्त्रः। पुरुषास्वातन्त्र्यमात्रं च अपौरुषेयत्वं रोचयन्ते जैमिनीया अपि। तच्च अस्माकमपि समानम् अन्यत्राभिनिवेशात्।

न चैकस्य प्रतिभानेऽनाश्वास इति युक्तम्। न हि बहूनामप्यज्ञानां विज्ञानां वाशयदोषवतां प्रतिभाने युक्त आश्वासः। तत्त्वज्ञानवतश्च अपास्तसमस्तदोषस्य एकस्यापि प्रतिभाने युक्त एवाश्वासः। सर्गादिभुवां प्रजा-पतिदेवर्षीणां धर्मज्ञानवैराग्यैश्वर्यसम्पन्नानामुपपद्यते तत्स्वरूपावधारणम्, तत्प्रत्ययेन चार्वाचीनानामपि तत्र संप्रत्यय इत्युपपन्नं ब्रह्मणः शास्त्रयोनित्वम् , शास्त्रस्य चापौरुषेयत्वम् , प्रामाण्यं चेति ।।

Link to a few scanned pages for reference: https://drive.google.com/file/d/1g1tUTRS280WpITJ3U6voAi15209BKJPj/view?usp=sharing

Other Playlists from this Category