logo

Vedāntamuktāvalī – 06 by Prof. Ramasubramanian

#Vedanta​ #Advaita​ #AdiShankara​ #Hinduism​ #Oneness​ #Nonduality​ #Spirituality
Lecture series on Bellaṃkoṇḍa Rāmarāyakavi’s Vedāntamuktāvalī by Prof. K. Ramasubramanian – Lecture #06

The following excerpt from Bhāmatī below (extracted from the commentary on Brahma Sūtra (1.1.3)) is a reference material relevant to this lecture.

येऽपि तावत् वर्णानां नित्यत्वमास्थिषत तैरपि पदवाक्यादीनां अनित्यत्वमभ्युपेयम् । आनुपूर्वीभेदवन्तो हि वर्णाः पदम्। पदानि चानुपूर्वीभेदवन्ति वाक्यम्। व्यक्तिधर्मश्चानुपूर्वी न वर्णधर्मः, वर्णानां नित्यानां विभूनां च कालतो देशतो वा पौर्वापर्यायोगात्। व्यक्तिश्चानित्येति कथं तदुपगृहीतानां वर्णानां नित्यानामपि पदता नित्या। पदानित्यतया च वाक्यादीनामप्यनित्यता व्याख्याता। तस्मान्नृत्तानुकरणवत्पदाद्यनुकरणम्। यथा हि यादृशं गात्रचलनादि नर्तकः करोति तादृशमेव शिक्ष्यमाणा अनुकरोति नर्तकी, न तु तदेव व्यनक्ति, एवं यादृशीमानुपूर्वीं वैदिकानां वर्णपदादीनां करोत्यध्यापयिता तादृशीमेवानुकरोति माणवकः, न तु तामेवोच्चारयति, आचार्यव्यक्तिभ्यो माणवकव्यक्तीनामन्यत्वात्। तस्मात्, नित्यानित्यवर्णवादिनां न लौकिकवैदिकपदवाक्यादिपौरुषेयत्वे विवादः, केवलं वेदवाक्येषु पुरुषस्वातन्त्र्यास्वातन्त्र्ये विप्रतिपत्तिः।

Link to a few scanned pages for reference: https://drive.google.com/file/d/1g1tUTRS280WpITJ3U6voAi15209BKJPj/view?usp=sharing

Other Playlists from this Category