Prashnottara Ratnamalika – 16 by Prof K Ramasubramanian
Prof K Ramasubramanian
April 27, 2020
#PrashnottaraRatnamalika
॥ प्रश्नोत्तररत्नमालिका ॥ Verses 39, 40 & 41
(91) का कल्पलता लोके सच्छिष्यायार्पिता विद्या ।
(92) कोऽक्षयवटवृक्षः स्यात् विधिवत्सत्पात्रदत्तदानं यत् ॥ ३९ ॥
(93) किं शस्त्रं सर्वेषां युक्तिः (94) माता च का धेनुः ।
(95) किं नु बलं यद्धैर्यं (96) को मृत्युः यदवधान-रहितत्वम् ॥ ४० ॥
(97) कुत्र विषं दुष्टजने (98) किमिहाशौचं भवेतृणं नृणाम् ।
(99) किमभयमिह वैराम्यं (100) भयमपि किं वित्तमेव सर्वेषाम् ॥ ४१ ॥
Note: numbers in the brackets denote the question number in the composition.