Prashnottara Ratnamalika – 12 by Prof. Ramasubramanian
Prof K Ramasubramanian
April 15, 2020
#PrashnottaraRatnamalika
॥ प्रश्नोत्तररत्नमालिका ॥ Verses 26, 27 & 28
(63) किं शोच्यं कार्पण्यं (64) सति विभवे किं प्रशस्तम् औदार्यम्।
(65) कः पूज्यो विद्वद्भिः स्वभावतः सर्वदा विनीतो यः ॥ २६ ॥
(66) कः कुलकमलदिनेशः सति गुणविभवेऽपि यो नम्रः ।
(67) कस्य वशे जगदेतत् प्रियहितवचनस्य धर्मनिरतस्य॥ २७ ॥
(68) विद्वन्मनोहरा का सत्कविता बोधवनिता च ।
(69) कं न स्पृशति विपत्तिः प्रवृद्धवचनानुवर्तिनं दान्तम् ॥ २८ ॥
Note: numbers in the brackets denote the question number in the composition.